|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.114. अध्यायः 114
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गवां चिरचीर्णतपःप्रसादिताच्चतुर्मुखाल्लोकश्रैष्ठ्यपावित्र्यादिवरलाभकथनम्॥ 1 ॥ तथा गोविशेषदानस्य फलविशेषकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text

वसिष्ठ उवाच।
शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम्।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति॥ 13-114-1(85934)
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः।
भवेम न च लोप्येम दोषेणेति परन्तप॥ 13-114-2(85935)
अस्मत्पुरीषस्नानेन जनः पुयेत सर्वदा।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाःठ॥ 13-114-3(85936)
तथा सर्वाणि भूतानि स्थावराणि चराणि च।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद॥ 13-114-4(85937)
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः।
एवं भवन्विति विभुर्लोकांस्तारयतेति च॥ 13-114-5(85938)
उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः।
तपसोऽन्ते महाराज गावो लोकपरायणाः॥ 13-114-6(85939)
तस्माद्गावो महाभागाः पवित्रं परमुच्यते।
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि॥ 13-114-7(85940)
सम्मनवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्॥
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते॥ 13-114-8(85941)
लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते॥ 13-114-9(85942)
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतीं सोमलोके महीयते॥ 13-114-10(85943)
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते॥ 13-114-11(85944)
समानवत्सां कृष्णां तु धेनु दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते॥ 13-114-12(85945)
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते॥ 13-114-13(85946)
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते॥ 13-114-14(85947)
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते॥ 13-114-15(85948)
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते॥ 13-114-16(85949)
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते॥ 13-114-17(85950)
सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम्।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते॥ 13-114-18(85951)
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात्॥ 13-114-19(85952)
पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम्।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते॥ 13-114-20(85953)
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम्।
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते॥ 13-114-21(85954)
वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम्।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः॥ 13-114-22(85955)
दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते॥ 13-114-23(85956)
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान्।
विमानेनार्कवर्णेन दिवि राजन्विराजता॥ 13-114-24(85957)
तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोपितः।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम्॥ 13-114-25(85958)
वीणानां वल्लकीनां च नू पुराणां च शिञ्जितैः।
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते॥ 13-114-26(85959)
यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावन्ति वर्षाणि महीयते सः।
स्वर्गच्युतश्चापि ततो नृलोके
कुले प्रसूतो विपुले विशोकः॥ ॥ 13-114-27(85960)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥ 112 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-114-1 गच्छामः शृङ्गितामितीति क.ध.पाठः॥ 7-114-18 प्रलम्बगलकम्बलाम्। शितिकण्ठामलङ्कृतामिति क.थ.ध.पाठः॥ 7-114-21 वैराटं वृद्धं पृष्टं यस्य। वैतानस्थितमुक्षाणमिति क.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|